Tuesday, March 25, 2008

भगवद्‍गीता-शांकरभाष्य-अध्याय ०३

bhagavad Gita chapter - 3

अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ।। ३.१ ।। (३.१) --

ज्यायसी श्रेयसी चेत्‌ यदि कर्मण सकाशात्‌ ते तव मता अभिप्रेता बुद्धि ज्ञानं हे जनार्दन। यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा कं श्रेयसाधनमिति कर्मणो ज्यायसी बुद्धि इति कर्मण अतिरिक्तकरणं बुद्धेरनुपपन्नम्‌ अर्जुनेन कृतं स्यात्‌; न हि तदेव तस्मात्‌ फलतोऽतिरिक्तं स्यात्‌। तथा च, कर्मण श्रेयस्करी भगवतोक्ता बुद्धि, अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत्‌ किं नु कारणमिति भगवत उपालम्भमिव कुर्वन्‌ तत्‌ किं कस्मात्‌ कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह, तच्च नोपपद्यते। अथ स्मार्तेनैव कर्मणा समुच्चय सर्वेषां भगवता उक्त अर्जुनेन च अवधारितश्चेत्‌ , ’तत्किं कर्मणि घोरे मां नियोजयसि’ (गीता ३.१) इत्यादि कथं युक्तं वचनम्‌।।
किञ्च -- व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे। तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्‌।।३.२।। (३.२) -- व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान्‌, तथापि मम मन्दबुद्धे व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति। तेन मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि प्रवृत्त त्वं तु कथं मोहयसि? अत ब्रवीमि बुद्धिं मोहयसि इव मे मम इति। त्वं तु भिन्नकर्तृकयो ज्ञानकर्मणो कपुरुषानुष्ठानासंभवं यदि मन्यसे, तत्रैवं सति तत्‌ तयो कं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेय अहम्‌ आप्नुयां प्राप्नुयाम्‌; इति यदुक्तं तदपि नोपपद्यते।। यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात्‌ , तत्‌ कथं तयो ’एकं वद’ इति कविषयैव अर्जुनस्य शुश्रूषा स्यात्‌। न हि भगवता पूर्वमुक्तम्‌ ’अन्यतरदेव ज्ञानकर्मणो वक्ष्यामि, नैव द्वयम्‌’ इति, येन उभयप्राप्त्यसंभवम्‌ आत्मनो मन्यमान कमेव प्रार्थयेत् ‌।। प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच -- श्री भगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्‌।।३.३।। (३.३) -- लोके अस्मिन्‌ शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थिति अनुष्ठेयतात्पर्यं पुरा पूर्वं सर्गादौ प्रजा सृष्ट्वा तासाम्‌ अभ्युदयनिश्रेयसप्राप्तिसाधनं वेदार्थसंप्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपाप। तत्र का सा द्विविधा निष्ठा इत्याह -- तत्र ज्ञानयोगेन ज्ञानमेव योग तेन सांख्यानाम्‌ अत्मानात्मविषयविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिμााजकानां ब्रह्मण्येव अवस्थितानां निष्ठा प्रोक्ता। कर्मयोगेन कर्मैव योग कर्मयोग तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थ। यदि च केन पुरुषेण कस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य अनुष्ठेयं भगवता इष्टम्‌ उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम्‌ , कथमिह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके व ज्ञानकर्मनिष्ठे ब्रूयात्‌? यदि पुन ’अर्जुन ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामि इति’ मतं भगवत कल्प्येत, तदा रागद्वेषवान्‌ अप्रमाणभूतो भगवान्‌ कल्पित स्यात्‌। तच्चायुक्तम्‌। तस्मात्‌ कयापि युक्त्या न समुच्चयो ज्ञानकर्मणो।। यत्‌ अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धे तच्च स्थितम्‌, अनिराकरणात्‌। तस्याश्च ज्ञाननिष्ठाया संन्यासिनामेवानुष्ठेयत्वम्‌ , भिन्नपुरुषानुष्ठेयत्ववचनात्‌। भगवत वमेव अनुमतमिति गम्यते।। ’मां च बन्धकारणे कर्मण्येव नियोजयसि’ इति विषण्णमनसमर्जुनम्‌ ’कर्म नारभे’ इत्येवं मन्वानमालक्ष्य आह भगवान्‌ -- न कर्मणामनारम्भात्‌ इति। अथवा -- ज्ञानकर्मनिष्ठयो परस्परविरोधात्‌ केन पुरुषेण युगपत्‌ अनुष्ठातुमशक्यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्मनिष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम्‌, न स्वातन्त््रयेण; ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वातन्त््रयेण पुरुषार्थहेतु अन्यानपेक्षा, इत्येतमर्थं प्रदर्शयिष्यन्‌ आह भगवान्‌ -- न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति।।३.४।। (३.४) -- न कर्मणां क्रियाणां यज्ञादीनाम्‌ इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम्‌ उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानां तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम्‌, ’ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण। यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि’ (महा० शान्ति० २०४।८) इत्यादिस्मरणात्‌, अनारम्भात्‌ अननुष्ठानात्‌ नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैव अवस्थानमिति यावत्‌। पुरुष न अश्नुते न प्राप्नोतीत्यर्थ।। कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति वचनात्‌ तद्विपर्ययात्‌ तेषामारम्भात्‌ नैष्कर्म्यमश्नुते इति गम्यते। कस्मात्‌ पुन कारणात्‌ कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात्‌। न ह्युपायमन्तरेण उपेयप्राप्तिरस्ति। कर्मयोगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य, श्रुतौ इह च, प्रतिपादनात्‌। श्रुतौ तावत्‌ प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन ’तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’ (बृह० उ० ४।४।२२) इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं प्रतिपादितम्‌। इहापि च -- ’संन्यासस्तु महाबाहो दुखमाप्तुमयोगत’ (गीता ५।६) ’योगिन कर्म कुर्वन्ति सङ्‌गं त्यक्त्वात्मशुद्धये ’ (गीता ५।११) ’यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्‌’ (गीता १८।५) इत्यादि प्रतिपादयिष्यति।। ननु च ’अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्‌’ इत्यादौ कर्तव्यकर्मसंन्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति। लोके च कर्मणामनारम्भान्नैष्कर्म्यमिति प्रसिद्धतरम्‌। अतश्च नैष्कर्म्यार्थिन किं कर्मारम्भेण? इति प्राप्तम्‌। अत आह -- न च संन्यसनादेवेति। नापि संन्यसनादेव केवलात्‌ कर्मपरित्यागमात्रादेव ज्ञानरहितात्‌ सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधिगच्छति न प्राप्नोति।। कस्मात्‌ पुन कारणात्‌ कर्मसंन्यासमात्रादेव केवलात्‌ ज्ञानरहितात्‌ सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छति इति हेत्वाकाङ्‌क्षायामाह -- न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्‌। कार्यते ह्यवश कर्म सर्व प्रकृतिजैर्गुणै।।३.५।। (३.५) -- न हि यस्मात्‌ क्षणमपि कालं जातु कदाचित्‌ कश्चित्‌ तिष्ठति अकर्मकृत्‌ सन्‌। कस्मात्‌? कार्यते प्रवर्त्यते हि यस्मात्‌ अवश व अस्वतन्त्र व कर्म सर्व प्राणी प्रकृतिजै प्रकृतितो जातै सत्त्वरजस्तमोभि गुणै। अज्ञ इति वाक्यशेष, यतो वक्ष्यति ’गुणैर्यो न विचाल्यते’ इति। सांख्यानां पृथक्करणात्‌ अज्ञानामेव हि कर्मयोग, न ज्ञानिनाम्‌। ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात्‌ कर्मयोगो नोपपद्यते। तथा च व्याख्यातम्‌ ’वेदाविनाशिनम्‌’ इत्यत्र।। यत्त्वनात्मज्ञ चोदितं कर्म नारभते इति तदसदेवेत्याह -- कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्‌। इन्द्रियार्थान्विमूढात्मा मिथ्याचार स उच्यते।।३.६।। (३.६) -- कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मरन्‌ चिन्तयन्‌ इन्द्रियार्थान्‌ विषयान्‌ विमूढात्मा विमूढान्तकरण मिथ्याचारो मृषाचार पापाचार स उच्यते।। यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियै कर्मयोगमसक्त स विशिष्यते।।३.७।। (३.७) -- यस्तु पुन कर्मण्यधिकृत अज्ञ बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियै वाक्पाण्यादिभि। किमारभते इत्याह -- कर्मयोगम्‌ असक्त सन्‌ फलाभिसंधिवर्जित स विशिष्यते इतरस्मात्‌ मिथ्याचारात्‌।। यत वम्‌ अत -- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण।।३.८।। (३.८) -- नियतं नित्यं शास्त्रोपदिष्टम्‌, यो यस्मिन्‌ कर्मणि अधिकृत फलाय च अश्रुतं तत्‌ नियतं कर्म, तत्‌ कुरु त्वं हे अर्जुन, यत कर्म ज्याय अधिकतरं फलत, हि यस्मात्‌ अकर्मण अकरणात्‌ अनारम्भात्‌। कथम्‌? शरीरयात्रा शरीरस्थिति अपि च ते तव न प्रसिध्येत्‌ प्रसिद्धिं न गच्छेत्‌ अकर्मण अकरणात्‌। अत दृष्ट कर्माकर्मणोर्विशेषो लोके।। यच्च मन्यसे बन्धार्थत्वात्‌ कर्म न कर्तव्यमिति तदप्यसत्‌। कथम्‌ -- यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन। तदर्थं कर्म कौन्तेय मुक्तसंग समाचर।।३.९।। (३.९) -- ’यज्ञो वै विष्णु’ (तै० सं० १.७.४) इति श्रुते यज्ञ ईश्वर, तदर्थं यत्‌ क्रियते तत्‌ यज्ञार्थं कर्म। तस्मात्‌ कर्मण अन्यत्र अन्येन कर्मणा लोक अयम्‌ अधिकृत कर्मकृत्‌ कर्मबन्धन कर्म बन्धनं यस्य सोऽयं कर्मबन्धन लोक, न तु यज्ञार्थात्‌। अत तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्‌ग कर्मफलसङ्‌गवर्जित सन्‌ समाचर निर्वर्तय।। इतश्च अधिकृतेन कर्म कर्तव्यम्‌ -- सहयज्ञा प्रजा सृष्ट्वा पुरोवाच प्रजापति। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌।।३.१०।। (३.१०) -- सहयज्ञा यज्ञसहिता प्रजा त्रयो वर्णा ता सृष्ट्वा उत्पाद्य पुरा पूर्वं सर्गादौ उवाच उक्तवान्‌ प्रजापति प्रजानां स्रष्टा अनेन यज्ञेन प्रसविष्यध्वं प्रसव वृद्धि उत्पत्ति तं कुरुध्वम्‌। ष यज्ञ व युष्माकम्‌ अस्तु भवतु इष्टकामधुक्‌ इष्टान्‌ अभिप्रेतान्‌ कामान्‌ फलविशेषान्‌ दोग्धीति इष्टकामधुक्‌।। कथम्‌ -- देवान्भावयतानेन ते देवा भावयन्तु व। परस्परं भावयन्त श्रेय परमवाप्स्यथ।।३.११।। (३.११) -- देवान्‌ इन्द्रादीन्‌ भावयत वर्धयत अनेन यज्ञेन। ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना व युष्मान्‌। वं परस्परम्‌ अन्योन्यं भावयन्त श्रेय परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेण अवाप्स्यथ। स्वर्गं वा परं श्रेय अवाप्स्यथ।। किञ्च -- इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविता। तैर्दत्तानप्रदायैभ्यो यो भुङ्‌क्ते स्तेन व स।।३.१२।। (३.१२) -- इष्टान्‌ अभिप्रेतान्‌ भोगान्‌ हि व युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन्‌ यज्ञभाविता यज्ञै वर्धिता तोषिता इत्यर्थ। तै देवै दत्तान्‌ भोगान्‌ अप्रदाय अदत्त्वा, आनृण्यमकृत्वा इत्यर्थ, भ्य देवेभ्य, य भुङ्‌क्ते स्वदेहेन्द्रियाण्येव तर्पयति स्तेन व तस्कर व स देवादिस्वापहारी।। ये पुन -- यज्ञशिष्टाशिन सन्तो मुच्यन्ते सर्वकिल्बिषै। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्‌।।३.१३।। (३.१३) -- देवयज्ञादीन्‌ निर्वर्त्य तच्छिष्टम्‌ अशनम्‌ अमृताख्यम्‌ अशितुं शीलं येषां ते यज्ञशिष्टाशिन सन्त मुच्यन्ते सर्वकिल्बिषै सर्वपापै चुल्ल्यादिपञ्चसूनाकृतै प्रमादकृतहिंसादिजनितैश्च अन्यै। ये तु आत्मंभरय, भुञ्जते ते तु अघं पापं स्वयमपि पापा -- ये पचन्ति पाकं निर्वर्तयन्ति आत्मकारणात्‌ आत्महेतो।। इतश्च अधिकृतेन कर्म कर्तव्यम्‌ जगच्चक्रप्रवृत्तिहेतुर्हि कर्म। कथमिति उच्यते -- अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव। यज्ञाद्भवति पर्जन्यो यज्ञ कर्मसमुद्भव।।३.१४।। (३.१४) -- अन्नात्‌ भुक्तात्‌ लोहितरेतपरिणतात्‌ प्रत्यक्षं भवन्ति जायन्ते भूतानि। पर्जन्यात्‌ वृष्टे अन्नस्य संभव अन्नसंभव। यज्ञात्‌ भवति पर्जन्य, ’अग्नौ प्रास्ताहुति सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं तत प्रजा (मनु० ३.७६)’ इति स्मृते। यज्ञ अपूर्वम्‌। स च यज्ञ कर्मसमुद्भव त्विग्यजमानयोश्च व्यापार कर्म, तत्‌ समुद्भव यस्य यज्ञस्य अपूर्वस्य स यज्ञ कर्मसमुद्भव।। तञ्चैवंविधं कर्म कुतो जातमित्याह -- कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्‌। तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्‌।।३.१५।। (३.१५) -- कर्म ब्रह्मोद्भवं ब्रह्म वेद स उद्भव कारणं प्रकाशको यस्य तत्‌ कर्म ब्रह्मोद्भवं विद्धि विजानीहि। ब्रह्म पुन वेदाख्यम्‌ अक्षरसमुद्भवम्‌ अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत्‌ अक्षरसमुद्भवम्‌। ब्रह्म वेद इत्यर्थ। यस्मात्‌ साक्षात्‌ परमात्माख्यात्‌ अक्षरात्‌ पुरुषनिश्वासवत्‌ समुद्भूतं ब्रह्म तस्मात्‌ सर्वार्थप्रकाशकत्वात्‌ सर्वगतम्‌; सर्वगतमपि सत्‌ नित्यं सदा यज्ञविधिप्रधानत्वात्‌ यज्ञे प्रतिष्ठितम्‌।। एवं प्रवर्तितं चक्रं नानुवर्तयतीह य। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति।।३.१६।। (३.१६) -- वम्‌ इत्थम्‌ ईश्वरेण वेदयज्ञपूर्वक जगच्चक्रं प्रवर्तितं न अनुवर्तयति इह लोके य कर्मणि अधिकृत सन्‌ अघायु अघं पापम्‌ आयु जीवनं यस्य स अघायु, पापजीवन इति यावत्‌। इन्द्रियाराम इन्द्रियै आराम आरमणम्‌ आक्रीडा विषयेषु यस्य स इन्द्रियाराम मोघं वृथा हे पार्थ, स जीवति।। तस्मात्‌ अज्ञेन अधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थ। प्राक्‌ आत्मज्ञाननिष्ठायोग्यताप्राप्ते तादर्थ्येन कर्मयोगानुष्ठानम्‌ अधिकृतेन अनात्मज्ञेन कर्तव्यमेवेत्येतत्‌ ’न कर्मणामनारम्भात्‌’ इत्यत आरभ्य ’शरीरयात्रापि च ते न प्रसिध्येदकर्मण’ इत्येवमन्तेन प्रतिपाद्य, ’यज्ञार्थात्‌ कर्मणोऽन्यत्र’ इत्यादिना ’मोघं पार्थ स जीवति’ इत्येवमन्तेनापि ग्रन्थेन प्रासङ्‌गिकम्‌ अधिकृतस्य अनात्मविद कर्मानुष्ठाने बहु कारणमुक्तम्‌। तदकरणे च दोषसंकीर्तनं कृतम्‌।। एवं स्थिते किमेवं प्रवर्तितं चक्रं सर्वेणानुवर्तनीयम्‌, आहोस्वित्‌ पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्याम्‌ अनात्मविद ज्ञानयोगेनैव निष्ठाम्‌ आत्मविद्भि सांख्यै अनुष्ठेयामप्राप्तेनैव, इत्येवमर्थम्‌ अर्जुनस्य प्रश्नमाशङ्‌क्य स्वयमेव वा शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थम्‌ ’एतं वै तमात्मानं विदित्वा निवृत्तमिथ्याज्ञाना सन्त ब्राह्मणा मिथ्याज्ञानवद्भि अवश्यं कर्तव्येभ्य पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्यं शरीरस्थितिमात्रप्रयुक्तं चरन्ति न तेषामात्मज्ञाननिष्ठाव्यतिरेकेण अन्यत्‌ कार्यमस्ति’ इत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रतिपिपादयिषितमाविष्कुर्वन्‌ आह भगवान्‌ -- यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते।।३.१७।। (३.१७) -- यस्तु सांख्य आत्मज्ञाननिष्ठ आत्मरति आत्मन्येव रति न विषयेषु यस्य स आत्मरतिरेव स्यात्‌ भवेत्‌ आत्मतृप्तश्च आत्मनैव तृप्त न अन्नरसादिना स मानव मनुष्य संन्यासी आत्मन्येव च संतुष्ट। संतोषो हि बाह्यार्थलाभे सर्वस्य भवति, तमनपेक्ष्य आत्मन्येव च संतुष्ट सर्वतो वीततृष्ण इत्येतत्‌। य ईदृश आत्मवित्‌ तस्य कार्यं करणीयं न विद्यते नास्ति इत्यर्थ।। किञ्च -- नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय।।३.१८।। (३.१८) -- नैव तस्य परमात्मरते कृतेन कर्मणा अर्थ प्रयोजनमस्ति। अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्य अनर्थ, न अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूप आत्महानिलक्षणो वा नैव अस्ति। न च अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित्‌ अर्थव्यपाश्रय प्रयोजननिमित्तक्रियासाध्य व्यपाश्रय व्यपाश्रयणम्‌ आलम्बनं कञ्चित्‌ भूतविशेषमाश्रित्य न साध्य कश्चिदर्थ अस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात्‌। न त्वम्‌ तस्मिन्‌ सर्वतसंप्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे।। यत वम्‌ -- तस्मादसक्त सततं कार्यं कर्म समाचर। असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष।।३.१९।। (३.१९) -- तस्मात्‌ असक्त सङ्‌गवर्जित सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय। असक्तो हि यस्मात्‌ समाचरन्‌ ईश्वरार्थं कर्म कुर्वन्‌ परं मोक्षम्‌ आप्नोति पूरुष सत्त्वशुद्धिद्वारेण इत्यर्थ।। यस्माच्च -- कर्मणैव हि संसिद्धिमास्थिता जनकादय। लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि।।३.२०।। (३.२०) -- कर्मणैव हि यस्मात्‌ पूर्वे क्षत्रिया विद्वांस संसिद्धिं मोक्षं गन्तुम्‌ आस्थिता प्रवृत्ता। के? जनकादय जनकाश्वपतिप्रभृतय। यदि ते प्राप्तसम्यग्दर्शना, तत लोकसंग्रहार्थं प्रारब्धकर्मत्वात्‌ कर्मणा सहैव असंन्यस्यैव कर्म संसिद्धिमास्थिता इत्यर्थ। अथ अप्राप्तसम्यग्दर्शना जनकादय, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिमास्थिता इति व्याख्येय श्लोक। अथ मन्यसे पूर्वैरपि जनकादिभि अजानद्भिरेव कर्तव्यं कर्म कृतम्‌; तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति; तथापि प्रारब्धकर्मायत्त त्वं लोकसंग्रहम्‌ व अपि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसंग्रह, तमेवापि प्रयोजनं संपश्यन्‌ कर्तुम्‌ अर्हसि।। लोकसंग्रह किमर्थं कर्तव्य इत्युच्यते -- यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।३.२१।। (३.२१) -- यद्यत्‌ कर्म आचरति करोति श्रेष्ठ प्रधान तत्तदेव कर्म आचरति इतर अन्य जन तदनुगत। किञ्च स श्रेष्ठ यत्‌ प्रमाणं कुरुते लौकिकं वैदिकं वा लोक तत्‌ अनुवर्तते तदेव प्रमाणीकरोति इत्यर्थ।। यदि अत्र ते लोकसंग्रहकर्तव्यतायां विप्रतिपत्ति तर्हि मां किं न पश्यसि? -- न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त व च कर्मणि।।३.२२।। (३.२२) -- न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि लोकेषु किञ्चन किञ्चिदपि। कस्मात्‌? न अनवाप्तम्‌ अप्राप्तम्‌ अवाप्तव्यं प्रापणीयम्‌, तथापि वर्ते व च कर्मणि अहम्‌।। यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित। मम वर्त्मानुवर्तन्ते मनुष्या पार्थ सर्वश।।३.२३।। (३.२३) -- यदि हि पुन अहं न वर्तेय जातु कदाचित्‌ कर्मणि अतन्द्रित अनलस सन्‌ मम श्रेष्ठस्य सत वर्त्म मार्गम्‌ अनुवर्तन्ते मनुष्या हे पार्थ, सर्वश सर्वप्रकारै।। उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्‌। सङ्‌करस्य च कर्ता स्यामुपहन्यामिमा प्रजा।।३.२४।। (३.२४) -- उत्सीदेयु विनश्येयु इमे सर्वे लोका लोकस्थितिनिमित्तस्य कर्मण अभावात्‌ न कुर्यां कर्म चेत्‌ अहम्‌। किञ्च, संकरस्य च कर्ता स्याम्‌। तेन कारणेन उपहन्याम्‌ इमा प्रजा। प्रजानामनुग्रहाय प्रवृत्त उपहतिम्‌ उपहननं कुर्याम्‌ इत्यर्थ। मम ईश्वरस्य अननुरूपमापद्येत।। यदि पुन अहमिव त्वं कृतार्थबुद्धि, आत्मवित्‌ अन्यो वा, तस्यापि आत्मन कर्तव्याभावेऽपि परानुग्रह व कर्तव्य इत्याह -- सक्ता कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्‌।।३.२५।। (३.२५) -- सक्ता कर्मणि ’अस्य कर्मण फलं मम भविष्यति’ इति केचित्‌ अविद्वांस यथा कुर्वन्ति भारत, कुर्यात्‌ विद्वान्‌ आत्मवित्‌ तथा असक्त सन्‌। तद्वत्‌ किमर्थं करोति? तत्‌ श्रृणु -- चिकीर्षु कर्तुमिच्छु लोकसंग्रहम्‌।। एवं लोकसंग्रहं चिकीर्षो न मम आत्मविद कर्तव्यमस्ति अन्यस्य वा लोकसंग्रहं मुक्त्वा। तत तस्य आत्मविद इदमुपदिश्यते -- न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्‌गिनाम्‌। जोषयेत्सर्वकर्माणि विद्वान्‌ युक्त समाचरन्‌।।३.२६।। (३.२६) -- बुद्धेर्भेद बुद्धिभेद ’मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मण फलम्‌’ इति निश्चयरूपाया बुद्धे भेदनं चालनं बुद्धिभेद तं न जनयेत्‌ न उत्पादयेत्‌ अज्ञानाम्‌ अविवेकिनां कर्मसङ्‌गिनां कर्मणि आसक्तानां आसङ्‌गवताम्‌। किं नु कुर्यात्‌? जोषयेत्‌ कारयेत्‌ सर्वकर्माणि विद्वान्‌ स्वयं तदेव अविदुषां कर्म युक्त अभियुक्त समाचरन्‌।। अविद्वानज्ञ कथं कर्मसु सज्जते इत्याह -- प्रकृते क्रियमाणानि गुणै कर्माणि सर्वश। अहङ्‌कारविमूढात्मा कर्ताऽहमिति मन्यते।।३.२७।। (३.२७) -- प्रकृते प्रकृति प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्या प्रकृते गुणै विकारै कार्यकरणरूपै क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वश सर्वप्रकारै अहंकारविमूढात्मा कार्यकरणसंघातात्मप्रत्यय अहंकार तेन विविधं नानाविधं मूढ आत्मा अन्तकरणं यस्य स अयं कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमान तत्तत्कर्मणाम्‌ अहं कर्ता इति मन्यते।। य पुनर्विद्वान्‌ -- तत्त्ववित्तु महाबाहो गुणकर्मविभागयो। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।।३.२८।। (३.२८) -- तत्त्ववित्‌ तु महाबाहो। कस्य तत्त्ववित्‌? गुणकर्मविभागयो गुणविभागस्य कर्मविभागस्य च तत्त्ववित्‌ इत्यर्थ। गुणा करणात्मका गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति।। ये पुन -- प्रकृतेर्गुणसम्मूढा सज्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्‌।।३.२९।। (३.२९) -- प्रकृते गुणै सम्यक्‌ मूढा संमोहिता सन्त सज्जन्ते गुणानां कर्मसु गुणकर्मसु ’वयं कर्म कुर्म फलाय’ इति। तान्‌ कर्मसङ्‌गिन अकृत्स्नविद कर्मफलमात्रदर्शिन मन्दान्‌ मन्दप्रज्ञान्‌ कृत्स्नवित्‌ आत्मवित्‌ स्वयं न विचालयेत्‌ बुद्धिभेदकरणमेव चालनं तत्‌ न कुर्यात्‌ इत्यर्थ।। कथं पुन कर्मण्यधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्यमिति, उच्यते -- मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर।।३.३०।। (३.३०) -- मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्ध्या ’अहं कर्ता ईश्वराय भृत्यवत्‌ करोमि’ इत्यनया बुद्ध्या। किञ्च, निराशी त्यक्ताशी निर्मम ममभावश्च निर्गत यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वर विगतसंताप विगतशोक सन्नित्यर्थ।। यदेतन्मम मतं कर्म कर्तव्यम्‌ इति सप्रमाणमुक्तं तत्‌ तथा -- ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि।।३.३१।। (३.३१) -- ये मे मदीयम्‌ इदं मतं नित्यम्‌ अनुतिष्ठन्ति अनुवर्तन्ते मानवा मनुष्या श्रद्धावन्त श्रद्दधाना अनसूयन्त असूयां च मयि परमगुरौ वासुदेवे अकुर्वन्त, मुच्यन्ते तेऽपि वंभूता कर्मभि धर्माधर्माख्यै।। ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्‌। सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस।।३.३२।। (३.३२) -- ये तु तद्विपरीता तत्‌ मम मतम्‌ अभ्यसूयन्त निन्दन्त न अनुतिष्ठन्ति नानुवर्तन्ते मे मतम्‌, सर्वेषु ज्ञानेषु विविधं मूढा ते। सर्वज्ञानविमूढान्‌ तान्‌ विद्धि जानीहि नष्टान्‌ नाशं गतान्‌ अचेतस अविवेकिन।। कस्मात्‌ पुन कारणात्‌ त्वदीयं मतं नानुतिष्ठन्ति, परधर्मान्‌ अनुतिष्ठन्ति, स्वधर्मं च नानुवर्तन्ते, त्वत्प्रतिकूला कथं न बिभ्यति त्वच्छासनातिक्रमदोषात्‌? तत्राह -- सदृशं चेष्टते स्वस्या प्रकृतेर्ज्ञानवानपि। प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति।।३.३३।। (३.३३) -- सदृशम्‌ अनुरूपं चेष्टते चेष्टां करोति। कस्य? स्वस्या स्वकीयाया प्रकृते। प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कार वर्तमानजन्मादौ अभिव्यक्त; सा प्रकृति। तस्या सदृशमेव सर्वो जन्तु ज्ञानवानपि चेष्टते, किं पुनर्मूर्ख। तस्मात्‌ प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिन। निग्रह निषेधरूप किं करिष्यति मम वा अन्यस्य वा।। यदि सर्वो जन्तु आत्मन प्रकृतिसदृशमेव चेष्टते, न च प्रकृतिशून्य कश्चित्‌ अस्ति, तत पुरुषकारस्य विषयानुपपत्ते शास्त्रानर्थक्यप्राप्तौ इदमुच्यते -- इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।३.३४।। (३.३४) -- इन्द्रियस्येन्द्रियस्य अर्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे राग अनिष्टे द्वेष इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ अवश्यंभाविनौ तत्र अयं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते। शास्त्रार्थे प्रवृत्त पूर्वमेव रागद्वेषयोर्वशं नागच्छेत्‌। या हि पुरुषस्य प्रकृति सा रागद्वेषपुरसरैव स्वकार्ये पुरुषं प्रवर्तयति। तदा स्वधर्मपरित्याग परधर्मानुष्ठानं च भवति। यदा पुन रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्रदृष्टिरेव पुरुष भवति, न प्रकृतिवश। तस्मात्‌ तयो रागद्वेषयो वशं न आगच्छेत्‌, यत तौ हि अस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्करौ इव पथीत्यर्थ।। तत्र रागद्वेषप्रयुक्तो मन्यते शास्त्रार्थमप्यन्यथा ’परधर्मोऽपि धर्मत्वात्‌ अनुष्ठेय व ’ इति, तदसत्‌ -- श्रेयान्स्वधर्मो विगुण परधर्मात्स्वनुष्ठितात्‌। स्वधर्मे निधनं श्रेय परधर्मो भयावह।।३.३५।। (३.३५) -- श्रेयान्‌ प्रशस्यतर स्वो धर्म स्वधर्म विगुण अपि विगतगुणोऽपि अनुष्ठीयमान परधर्मात्‌ स्वनुष्ठितात्‌ साद्गुण्येन संपादितादपि। स्वधर्मे स्थितस्य निधनं मरणमपि श्रेय परधर्मे स्थितस्य जीवितात्‌। कस्मात्‌? परधर्म भयावह नरकादिलक्षणं भयमावहति यत।। यद्यपि अनर्थमूलम्‌ ’ध्यायतो विषयान्पुंस (गीता २.६२)’ इति ’रागद्वेषौ ह्यस्य परिपन्थिनौ’ इति च उक्तम्‌, विक्षिप्तम्‌ अनवधारितं च तदुक्तम्‌। तत्‌ संक्षिप्तं निश्चितं च इदमेवेति ज्ञातुमिच्छन्‌ अर्जुन उवाच ’ज्ञाते हि तस्मिन्‌ तदुच्छेदाय यत्नं कुर्याम्‌’ इति अर्जुन उवाच -- अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुष। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजित।।३.३६।। (३.३६) -- अथ केन हेतुभूतेन प्रयुक्त सन्‌ राज्ञेव भृत्य अयं पापं कर्म चरति आचरति पूरुष पुरुष स्वयम्‌ अनिच्छन्‌ अपि हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात्‌ इव नियोजित राज्ञेव इत्युक्तो दृष्टान्त।। शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति भगवान्‌ उवाच -- श्री भगवानुवाच काम ष क्रोध ष रजोगुणसमुद्भव। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्‌।।३.३७।। (३.३७) -- ’ऐश्वर्यस्य समग्रस्य धर्मस्य यशस श्रिय। वैराग्यस्याथ मोक्षस्य षण्णां भग इतीरणा’ (विष्णु पु० ६।५।७४) ेश्वर्यादिषट्कं यस्मिन्‌ वासुदेवे नित्यमप्रतिबद्धत्वेन सामस्त्येन च वर्तते, ’उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्‌। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ (विष्णु प० ६।५।७८) उत्पत्त्यादिविषयं च विज्ञानं यस्य स वासुदेव वाच्य भगवान्‌ इति।। काम ष सर्वलोकशत्रु यन्निमित्ता सर्वानर्थप्राप्ति प्राणिनाम्‌। स ष काम प्रतिहत केनचित्‌ क्रोधत्वेन परिणमते। अत क्रोध अपि ष व रजोगुणसमुद्भव रजश्च तत्‌ गुणश्च रजोगुण स समुद्भव यस्य स काम रजोगुणसमुद्भव, रजोगुणस्य वा समुद्भव। कामो हि उद्भूत रज प्रवर्तयन्‌ पुरुषं प्रवर्तयति; ’तृष्णया हि अहं कारित’ इति दुखिनां रजकार्ये सेवादौ प्रवृत्तानां प्रलाप श्रूयते। महाशन महत्‌ अशनं अस्येति महाशन; अत व महापाप्मा; कामेन हि प्रेरित जन्तु पापं करोति। अत विद्धि नं कामम्‌ इह संसारे वैरिणम्‌।। कथं वैरी इति दृष्टान्तै प्रत्याययति -- धूमेनाμायते वह्निर्यथाऽऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्‌।।३.३८।। (३.३८) -- धूमेन सहजेन आμायते वह्नि प्रकाशात्मक अप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथा उल्बेन च जरायुणा गर्भवेष्टनेन आवृत आच्छादित गर्भ तथा तेन इदम्‌ आवृतम्‌।। किं पुनस्तत्‌ इदंशब्दवाच्यं यत्‌ कामेनावृतमित्युच्यते -- आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।३.३९।। (३.३९) -- आवृतम्‌ तेन ज्ञानं ज्ञानिन नित्यवैरिणा, ज्ञानी हि जानाति ’अनेन अहमनर्थे प्रयुक्त’ इति पूर्वमेव। दुखी च भवति नित्यमेव। अत असौ ज्ञानिनो नित्यवैरी, न तु मूर्खस्य। स हि कामं तृष्णाकाले मित्रमिव पश्यन्‌ तत्कार्ये दुखे प्राप्ते जानाति ’तृष्णया अहं दुखित्वमापादित’ इति, न पूर्वमेव। अत ज्ञानिन व नित्यवैरी। किंरूपेण? कामरूपेण काम इच्छैव रूपमस्य इति कामरूप तेन दुष्पूरेण दुखेन पूरणमस्य इति दुष्पूर तेन अनलेन न अस्य अलं पर्याप्ति विद्यते इत्यनल तेन च।। किमधिष्ठान पुन काम ज्ञानस्य आवरणत्वेन वैरी सर्वस्य लोकस्य? इत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने सुखेन निबर्हणं कर्तुं शक्यत इति -- इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्‌।।३.४०।। (३.४०) -- इन्द्रियाणि मन बुद्धिश्च अस्य कामस्य अधिष्ठानम्‌ आश्रय उच्यते। तै इन्द्रियादिभि आश्रयै विमोहयति विविधं मोहयति ष काम ज्ञानम्‌ आवृत्य आच्छाद्य देहिनं शरीरिणम्‌।। यत वम्‌ -- तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्‌।।३.४१।। (३.४१) -- तस्मात्‌ त्वम्‌ इन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज नं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रत आचार्यतश्च आत्मादीनाम्‌ अवबोध, विज्ञानं विशेषत तदनुभव, तयो ज्ञानविज्ञानयो श्रेयप्राप्तिहेत्वो नाशनं नाशकरं प्रजहिहि आत्मन परित्यजेत्यर्थ।। इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहि इत्युक्तम्‌; तत्र किमाश्रय कामं जह्यात्‌ इत्युच्यते -- इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य परं मन। मनसस्तु परा बुद्धिर्यो बुद्धे परतस्तु स।।३.४२।। (३.४२) --

इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टानि आहु पण्डिता। तथा इन्द्रियेभ्य परं मन संकल्पविकल्पात्मकम्‌। तथा मनस तु परा बुद्धि निश्चयात्मिका। तथा य सर्वदृश्येभ्य बुद्ध्यन्तेभ्य आभ्यन्तर, यं देहिनम्‌ इन्द्रियादिभि आश्रयै युक्त काम ज्ञानावरणद्वारेण मोहयति इत्युक्तम्‌। बुद्धे परतस्तु स स बुद्धे द्रष्टा परमात्मा।। तत किम्‌ --

 एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम्‌।।३.४३।। (३.४३) --

वं बुद्धे परम्‌ आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक्‌ स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा सम्यक्‌ समाधायेत्यर्थ। जहि नं शत्रुं हे महाबाहो कामरूपं दुरासदं दुखेन आसद आसादनं प्राप्ति यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति।।

No comments: